(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.137. अध्यायः 137
Mahabharata - Adi Parva - Chapter Topics
पाण्डोः श्राद्धदानम्॥ 1 ॥ कुमाराणां क्रीडावर्णनम्॥ 2 ॥
क्रीडायां भीमेन दुर्योधनादीनां पराभवः॥ 3 ॥
दुर्योधनेन प्रमाणकोट्यां पातनं, सर्पैर्दंशनं, विषमिश्रभक्ष्यदानम्॥ 4 ॥
Mahabharata - Adi Parva - Chapter Text

वैशम्पायन उवाच। 1-137-0x(815)(6131)
ततः क्षत्ता च भीष्मश्च व्यासो राजा च बन्धुभिः।
ददुः श्राद्धं तदा पाण्डोः स्वधामृतमयं तदा॥ 1-137-1(6132)
`पुरोहितसहायास्ते यथान्यायमकुर्वत।'
कुरूंश्च विप्रमुख्यांश्च भोजयित्वा सहस्रशः।
रत्नौघान्द्विजमुख्येभ्यो दत्त्वा ग्रामवरांस्तथा॥ 1-137-2(6133)
कृतशौचांस्ततस्तांस्तु पाण्डवान्भरतर्षभान्।
आदाय विविशुः सर्वे पुरं वारणसाह्वयम्॥ 1-137-3(6134)
सततं स्मानुशोचन्तस्तमेव भरतर्षभम्।
पौरजानपदाः सर्वे मृतं स्वमिव बान्धवम्॥ 1-137-4(6135)
श्राद्धावसाने तु तदा दृष्ट्वा तं दुःखितं जनम्।
संमूढां दुःखशोकार्तां व्यासो मातरमब्रवीत्॥ 1-137-5(6136)
अतिक्रान्तसुखाः कालाः पर्युपस्थितदारुणाः।
श्वःश्वः पापिष्ठदिवसाः पृथिवी गतयौवना॥ 1-137-6(6137)
बहुमायासमाकीर्णो नानादोषसमाकुलः।
लुप्तधर्मक्रियाचारो घोरः कालो भविष्यति॥ 1-137-7(6138)
कुरूणामनयाच्चापि पृथिवी न भविष्यति।
गच्छ त्वं योगमास्थाय युक्ता वस तपोवने॥ 1-137-8(6139)
माद्राक्षीस्त्वं कुलस्यास्य घोरं संक्षयमात्मनः।
तथेति समनुज्ञाय सा प्रविश्याब्रवीत्स्नुषाम्॥ 1-137-9(6140)
अम्बिक तव पौत्रस्य दुर्नयात्किल भारताः।
सानुबन्धा विनङ्क्ष्यन्ति पौराश्चैवेति नः श्रुतम्॥ 1-137-10(6141)
तत्कौसल्यामिमामार्तां पुत्रशोकाभिपीडिताम्।
वनमादाय भद्रं ते गच्छावो यदि मन्यसे॥ 1-137-11(6142)
तथेत्युक्ता त्वम्बिकया भीष्ममामन्त्र्य सुव्रता।
वनं ययौ सत्यवती स्नुषाभ्यां सह भारत॥ 1-137-12(6143)
ताः सुघोरं तपस्तप्त्वा देव्यो भरतसत्तम॥
देहं त्यक्त्वा महाराज गतिमिष्टां ययुस्तदा॥ 1-137-13(6144)
वैशम्पायन उवाच। 1-137-14x(816)
अथाप्तवन्तो वेदोक्तान्संस्कारान्पाण्डवास्तदा।
संव्यवर्धन्त भोगांस्ते भुञ्जानाः पितृवेश्मनि॥ 1-137-14(6145)
धार्तराष्ट्रैश्च सहिताः क्रीडन्तो मुदिताः सुखम्।
बालक्रीडासु सर्वासु विशिष्टास्तेजसाऽभवन्॥ 1-137-15(6146)
जवे लक्ष्याभिहरणे भोज्ये पांसुविकर्षणे।
धार्तराष्ट्रान्भीमसेनः सर्वान्स परिमर्दति॥ 1-137-16(6147)
हर्षात्प्रक्रीडमानांस्तान् गृह्य राजन्निलीयते।
शिरःसु विनिगृह्यैतान्योजयामास पाण्डवैः॥ 1-137-17(6148)
शतमेकोत्तरं तेषां कुमाराणां महौजसाम्।
एक एव निगृह्णाति नातिकृच्छ्राद्वृकोदरः॥ 1-137-18(6149)
कचेषु च निगृह्यैनान्विनिहत्य बलाद्बली।
चकर्ष क्रोशतो भूमौ घृष्टजानुशिरोंसकान्॥ 1-137-19(6150)
दश बालाञ्जले क्रीडन्भुजाभ्यां परिगृह्य सः।
आस्ते स्म सलिले मग्नो मृतकल्पान्विमुञ्चति॥ 1-137-20(6151)
फलानि वृक्षमारुह्य विचिन्वन्ति च ये तदा।
तदा पादप्रहारेण भीमः कम्पयते द्रुमान्॥ 1-137-21(6152)
प्रहारवेगाभिहता द्रुमा व्याघूर्णितास्ततः।
सफलाः प्रपतन्ति स्म द्रुमात्स्रस्ताः कुमारकाः॥ 1-137-22(6153)
`केचिद्भग्नशिरोरस्काः केचिद्भग्नकटीमुखाः।
निपेतुर्भ्रातरः सर्वे भीमसेनभुजार्दिताः॥' 1-137-23(6154)
न ते नियुद्धे न जवे न योग्यासु कदाचन।
कुमारा उत्तरं चक्रुः स्पर्धमाना वृकोदरम्॥ 1-137-24(6155)
एवं स धार्तराष्ट्रांश्च स्पर्धमानो वृकोदरः।
अप्रियेऽतिष्ठदत्यन्तं बाल्यान्न द्रोहचेतसा॥ 1-137-25(6156)
ततो बलमतिख्यातं धार्तराष्ट्रः प्रतापवान्।
भीमसेनस्य तज्ज्ञात्वा दुष्टभावमदर्शयत्॥ 1-137-26(6157)
तस्य धर्मादपेतस्य पापानि परिपश्यतः।
मोहादैश्वर्यलोभाच्च पापा मतिरजायत॥ 1-137-27(6158)
अयं बलवतां श्रेष्ठः कुन्तीपुत्रो वृकोदरः।
मध्यमः कुन्तिपुत्राणां निकृत्या सन्निगृह्यतां॥ 1-137-28(6159)
प्राणवान्विक्रमी चैव शौर्येण महताऽन्वितः।
स्पर्धते चापि सहितानस्मानेको वृकोदरः॥ 1-137-29(6160)
तं तु सुप्तं पुरोद्याने गङ्गायां प्रक्षिपामहे।
अथ तस्मादवरजं श्रेष्ठं चैव युधिष्ठिरम्॥ 1-137-30(6161)
प्रसह्य बन्धने बद्ध्वा प्रशासिष्ये वसुन्धराम्।
एवं स निश्चयं पापः कृत्वा दुर्योधनस्तदा।
नित्यमेवान्तरप्रेक्षी भीमस्यासीन्महात्मनः॥ 1-137-31(6162)
ततो जलविहारार्थं कारयामास भारत।
चैलकम्बलवेश्मानि विचित्राणि महान्ति च॥ 1-137-32(6163)
सर्वकामैः सुपूर्णानि पताकोच्छ्रायवन्ति च।
तत्र संजनयामास नानागाराण्यनेकशः॥ 1-137-33(6164)
उदकक्रीडनं नाम कारयामास भारत।
प्रमाणकोट्यां तं देशं स्थलं किंचिदुपेत्यह॥ 1-137-34(6165)
`क्रीडावसाने ते सर्वे शुचिवस्त्राः स्वलङ्कृताः।
सर्वकामसमृद्धं तदन्नं बुभुजिरे शनैः॥ 1-137-35(6166)
दिवसान्ते परिश्रान्ता विहृत्य च कुरूद्वहाः।
विहारावसथेष्वेव वीरा वासमरोचयन्॥ 1-137-36(6167)
खिन्नस्तु बलवान्भीमो व्यायामाभ्यधिकस्तदा।
वाहयित्वा कुमारांस्ताञ्जलक्रीडागतान्विभुः॥ 1-137-37(6168)
प्रमाणकोट्यां वासार्थं सुष्वापारुह्य तत्स्थलम्।
शीतं वासं समासाद्य शान्तो मदविमोहितः॥ 1-137-38(6169)
निश्चेष्टः पाण्डवो राजन्सुष्वाप मृतवत्क्षितौ।
ततो बद्ध्वा लतापाशैर्भीमं दुर्योधनः शनैः॥ 1-137-39(6170)
प्रमाणकोट्यां संसुप्तं गङ्गायां प्राक्षिपज्जले।
ततः प्रबुद्धः कौन्तेयः सर्वान्संछिद्य बन्धनान्॥ 1-137-40(6171)
उदतिष्ठद्बलाद्भूयो भीमः प्रहरतां वरः।
स विमुक्तो महातेजा नाज्ञासीत्तेन तत्कृतम्॥ 1-137-41(6172)
पुनर्निद्रावशं प्राप्तस्तत्रैव प्रास्वपद्बली।
अर्धरात्र्यां व्यतीतायामुत्तस्थुः कुरुपाण्जवाः।
दुर्योधनस्तु कौन्तेयं दृष्ट्वा निर्वेदमभ्यगात्॥ 1-137-42(6173)
सुप्तं चापि पुनः सर्पैस्तीक्ष्णदंष्ट्रैर्महाविषैः।
कुपितैर्दंशयामास सर्वेष्वेवाङ्गसन्धिषु॥ 1-137-43(6174)
दंष्ट्राश्च दंष्ट्रिणां मर्मस्वपि तेन निपातिताः।
त्वचं न चास्य बिभिदुः सारत्वात्पृथुपक्षसः॥ 1-137-44(6175)
प्रबुद्धो भीसेनस्तान्सर्वान्सर्पानपोथयत्।
सारथिं चास्य दयितमपहस्तेन जघ्निवान्॥ 1-137-45(6176)
तथान्यदिवसे राजन्हन्तुकामोऽत्यमर्षणः।
वलनेन सहामन्त्र्य सौबलस्य मते स्थितः॥ 1-137-46(6177)
भोजने भीमसेनस्य ततः प्राक्षेपयद्विषम्।
कालकूटं विषं तीक्ष्णं संभृतं रोमहर्षणम्॥ 1-137-47(6178)
तच्चापि भुक्त्वाऽजरदॉयदविकारो वृकोदरः।
विकारं नाभ्यजनयत्सुतीक्ष्णमपि तद्विषम्॥ 1-137-48(6179)
भीमसंहननो भीमस्त्समादजरयद्विषम्।
ततोऽन्यदिवसे राजन्हन्तुकामो वृकोदरम्॥ 1-137-49(6180)
सौबलेन सहायेन धार्तराष्ट्रोऽभ्यचिन्तयत्।
चिन्तयन्नालभन्निद्रां दिवारात्रमतन्द्रितः॥ 1-137-50(6181)
एवं दुर्योधनः कर्णः शकुनिश्चापि सौबलः।
अनेकैरप्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान्॥ 1-137-51(6182)
वैश्या पुत्रस्तदाचष्ट पार्थानां हितकाम्यया।
पाण्डवा ह्यपि तत्सर्वं प्रत्यजानन्नरिन्दमाः।
उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः॥' ॥ 1-137-52(6183)

इति श्रीमन्महाभाऱते आदिपर्वणि संभवपर्वणि सप्तत्रिंशदधिकशततमोऽध्यायः॥ 137 ॥

Mahabharata - Adi Parva - Chapter Footnotes
1-137-6 श्वःश्वः पूर्वपूर्वदिनापेक्षया उत्तरमुत्तरं पापिष्ठण्। गतयौवना सम्यक्फलसून्या॥ 1-137-8 योगं चित्तवृत्तिनिरोधं प्रयाणोद्योगंवा। युक्ता समाहिता॥ 1-137-24 योग्यासु क्रियास्विति शेषः। उत्तरमुत्कर्षम्॥ 1-137-28 निकृत्या कपटेन॥ 1-137-29 प्राणवान् बलवान्॥ 1-137-31 प्रसह्य बलात्कारेण॥ 1-137-34 प्रमाणकोट्यां गङ्गायां प्रदेशविशेषे। स्थलं किंचिदर्धं जलेऽर्धं स्थले च क्रीडागारम्॥ 1-137-46 वलनेन तन्नामकेन सहचरेण॥ सप्तत्रिंशदधिकशततमोऽध्यायः॥ 137 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.